(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.93. अध्यायः 093
Mahabharata - Udyoga Parva - Chapter Topics
श्रीकृष्णेन विदुरवचनानुमोदनपूर्वकं स्वागमनस्य लोकपरिवादपरिहारार्थत्वकथनम् ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text

` वैशम्पायन उवाच। 5-93-0x(3667)(35085)
विदुरस्य वचः श्रुत्वा प्रश्रितं पुरुषोत्तमः ।
इदं होवाच वचनं मधुरं मधुसूदनः ॥' 5-93-1(35086)
श्रीभगवानुवाच। 5-93-2x(3668)
यथा व्रूयान्महाप्राज्ञो यथा ब्रूयाद्विचक्षणः।
सथा वाच्यस्त्वद्विधेन भवता मद्विधः सुहृत् ॥ 5-93-2(35087)
धर्मार्थयुक्तं तथ्यं च यथा त्वय्युपपद्यते।
तथा वचनमुक्तोऽस्ति त्वयैतत्पितृमातृवत् ॥ 5-93-3(35088)
सत्यं प्राप्तं च युक्तं वाऽप्येवमेव यथाऽऽत्थ माम्।
श्रृणुष्वागमने हेतुं विदुरावहितो मम ॥ 5-93-4(35089)
दौरात्म्यं धार्तराष्ट्रस्य क्षत्रियाणां च वैरिताम्।
सर्वमेतदहं जानन्क्षत्तः प्राप्तोऽद्य कौरवान्॥ 5-93-5(35090)
पर्यस्तां पृथिवीं सर्वां साश्वां सरथकुञ्जराम् ।
यो मोचयेन्मृत्युपाशात्प्राप्नुयाद्धर्ममुत्तमम् ॥ 5-93-6(35091)
धर्मकार्यं यतञ्शक्त्या नो चेत्प्राप्नोति मानवः ।
प्राप्तो भवति तत्पुण्यमत्र मे नास्ति संशयः ॥ 5-93-7(35092)
मनसा चिन्तयन्पापं कर्मणा नातिरोचयन्।
न प्राप्नोति फलं तस्येत्येवं धर्मविदो विदुः ॥ 5-93-8(35093)
सोऽहं यतिष्ये प्रशमं क्षत्तः कर्तुममायया।
कुरूणां सृञ्जयानां च सङ्ग्राने विनशिष्यताम् ॥ 5-93-9(35094)
सेयमापन्महाघोरा कुरुष्वेव समुत्थिता ।
कर्णदुर्योधनकृता सर्वे ह्येते तदन्वयाः ॥ 5-93-10(35095)
व्यसने क्लिश्यमानं हि यो मित्रं नाभिपद्यते ।
अनुनीय यथाशक्ति तं नृशंसं विदुर्बुधाः ॥ 5-93-11(35096)
आकेशग्रहणान्मित्रमकार्यात्संनिवर्तयन्।
अवाच्यः कस्यचिद्भवति कृतयत्नो यथाबलम् ॥ 5-93-12(35097)
तत्समर्थं शुभं वाक्यं धर्मार्थसहितं हितम्।
धार्तराष्ट्रः सहामात्यो ग्रहीतुं विदुरार्हति ॥ 5-93-13(35098)
हितं हि धार्तराष्ट्राणां पाण्डवानां तथैव च ।
पृथिव्यां क्षत्रियाणां च यतिष्येऽहममायया ॥ 5-93-14(35099)
हिते प्रयतमानं मां शङ्केद्दुर्योधनो यदि।
हृदयस्य च मे प्रीतिरानृण्यं च भविष्यति ॥ 5-93-15(35100)
ज्ञातीनां हि मिथो भेदे यन्मित्रं नाभिपद्यते ।
सर्वयत्नेन माध्यस्थ्यं न तन्मित्रं विदुर्बुधाः ॥ 5-93-16(35101)
न मां ब्रूयुरधर्मिष्ठा मूढा ह्यसुहृदस्तथा ।
शक्तो नावारयत्कृष्णः संरब्धान्कुरुपाण्डवान् ॥ 5-93-17(35102)
उभयोः साधयन्नर्थमहामागत इत्युत ।
तत्र यत्नमहं कृत्वा गच्छेयं नृष्ववाच्यताम् ॥ 5-93-18(35103)
मम धर्मार्थयुक्तं हि श्रुत्वा वाक्यमनामयम्।
न चेदादास्यते बालो दिष्टस्य वशमेष्यति ॥ 5-93-19(35104)
अहापयन्पाण्डवार्थं यथाव-
च्छमं कुरूणां यदि चाचरेयम्।
पुण्यं च मे स्याच्चरितं महात्म-
न्मुच्येरंश्च कुरवो मृत्युपाशात् ॥ 5-93-20(35105)
अपि वाचं भाषमाणस्य काव्यां
धर्मरामामर्थवतीमहिंस्राम्।
अवेक्षेरन्धार्तराष्ट्राः शमार्थं
मां च प्राप्तं कुरवः पूजयेयुः ॥ 5-93-21(35106)
न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः।
क्रुद्धस्य प्रमुखे स्थातुं सिंहस्येवेतरे मृगाः ॥ 5-93-22(35107)
वैशम्पायन उवाच। 5-93-23x(3669)
इत्येवमुक्त्वा वचनं वृष्णीनामृषभस्तदा।
शयने सुखसंस्पर्शे शिश्ये यदुसुखावहः ॥ ॥ 5-93-23(35108)

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि त्रिनवतितमोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-93-6 पर्यस्तां अन्यथाभूताम् ॥ 5-93-7 यतन् यतमानः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.